|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.6. अध्यायः 006
Mahabharata - Vana Parva - Chapter Topics
विदुरविप्रयोगखिन्नेन धृतराष्ट्रेण तदाह्वानाय संजयप्रेषणम् ॥ 1 ॥ संजयाहूतेन विदुरेण पुनर्धृतराष्ट्रंप्रत्यागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-6-0x(1780)(15897)
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः ॥ 3-6-1(15898)
[विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ॥] 3-6-2(15899)
स सभाद्वारमागम्य विदुरस्मारमोहितः।
समक्षं पार्थिवेनद्राणां विसंज्ञः प्रापतद्भुवि ॥ 3-6-3(15900)
स तु लब्ध्वा चिरात्संज्ञां समुत्थाय महीतलात्।
समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ॥ 3-6-4(15901)
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीवमे ॥ 3-6-5(15902)
तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत् ॥ 3-6-6(15903)
पश्चात्तापाभिसंतप्तो विदुरस्मारमोहितः।
भ्रातृश्नेहादिदं राजा संजयं वाक्यमब्रवीत् ॥ 3-6-7(15904)
गच्छ संजय जानीहि भ्रातरं विदुरं मम।
यदि जीवति रोषेण मया पापेन निर्धुतः ॥ 3-6-8(15905)
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना ॥ 3-6-9(15906)
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्।
न जह्माज्जीवितं प्राज्ञ तं गच्छानय संजय ॥ 3-6-10(15907)
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति 3-6-11(15908)
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥ 3-6-12(15909)
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः।
भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम् ॥ 3-6-13(15910)
युधिष्ठिरमुपागम्य पूजयामास संजयः।
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे ॥ 3-6-14(15911)
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥ 3-6-15(15912)
संजय उवाच। 3-6-16x(1781)
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः।
तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ॥ 3-6-16(15913)
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्।
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम् ॥ 3-6-17(15914)
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥ 3-6-18(15915)
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः।
दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥ 3-6-19(15916)
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ।
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥ 3-6-20(15917)
वैशम्पायन उवाच। 3-6-21x(1782)
सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह।
क्षम्यतामिति चोवाचयदुक्तोसि मयाऽनघ ॥ 3-6-21(15918)
विदुर उवाच। 3-6-22x(1783)
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्।
तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः ॥ 3-6-22(15919)
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः।
दीनानुकम्पिनो राजन्नात्र कार्या विचारणा ॥ 3-6-23(15920)
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव।
दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति ॥ 3-6-24(15921)
वैशम्पायन उवाच। 3-6-25x(1784)
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती।
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥ 3-6-25(15922)
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-6-1 महाप्राज्ञः विदुरेपदेशे स्थितानां जयो भविष्यतीति जानन् ॥ 3-6-2 संधिविग्रहकारितं संधिविग्रहादिनीतिज्ञत्वकृतम्। भविष्यति आगामिनि काले ॥ 3-6-8 निर्धुतः निःसारितः ॥ 3-6-9 व्यलीकं अप्रियम् ॥ 3-6-10 त्यक्ष्यामि जीवितमिति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|